Skip to main content

Translate

Dattatrey Vajra Kawacham Lyrics and Benefits

Lyrics of datt kawacham, Benefits of dattatrey kawach recitation, दत्तात्रेय कवचं .

Shridattatreyavajrakavacham is a super powerful and wonderful hymn which is a prasad for the devotees. Its recitation gives physical as well as spiritual success. This is the best hymn which is capable to give Dharm  Arth, Kama and Moksha i.e. religious benefits, monetary benefits, wish fulfilling and salvation. 

It also bestows all kinds of opulence's like elephants, horses, chariots, infantry etc. It is possible to get family happiness like good life partner, good children by reading this. By its recitation all kinds of sorrows are destroyed, enemies are destroyed, all kinds of happiness are attained. We can also get freedom from diseases.

By reciting Sri dattatrey-vajra-kavacham, one gets freedom from malefic effects of palnets, gets rid of witchcraft, and ends domestic troubles. An infertile woman is also capable of giving birth to a child. Premature death is avoided.

Shri Dattatreya Bhagwan blesses the one who recites this Kavach.

Lyrics of datt kawacham, Benefits of dattatrey kawach recitation, दत्तात्रेय कवचं .
Dattatrey Vajra Kawacham Lyrics and Benefits

Read about When is DATT JAYANTI, importance?

|| Shridattatreya Vajra Kavach ||

श्रीगणेशाय नम: । श्रीदत्तात्रेय नम: ।।

ऋषिय ऊचु:

कथं संकल्पसिद्धि: स्याद्वेदव्यास कलौ युगे ।

धर्मार्थकाममोक्षाणां साधनं किमुदाहृतम् ।।1।।


व्यास उवाच

श्र्ण्वन्तु ऋषय: सर्वे शीघ्रं संकल्पसाधनम् ।

सकृदुच्चारमात्रेण भोगमोक्षप्रदायकम् ।।2।।


गौरीश्रृंगे हिमवत: कल्पवृक्षोपशोभितम् ।

दीप्ते दिव्यमहारत्नहेममण्डपमध्यगम् ।।3||


रत्नसिंहासनासीनं प्रसन्नं परमेश्वरम् ।

मंदस्मितमुखाम्भोजं शंकरं प्राह पार्वती ।।4||


श्रीदेव्युवाच |

देवदेव महादेव लोकशंकर शंकर ।

मन्त्रजालानि सर्वाणि यन्त्रजालानि कृत्स्नश: ।।5।।


तन्त्रजालान्यनेकानि मया त्वत्त: श्रुतानि वै ।

इदानीं द्रष्टुमिच्छामि विशेषेण महीतलम् ।।6।।


इत्युदीरितमाकर्ण्य पार्वत्या परमेश्वर: ।

करेणामृज्य संतोषात्पार्वतीं प्रत्यभाषत ।।7।।


मयेदानीं त्वया सार्धं वृषमारुह्य गम्यते ।

इत्युक्त्वा वृषमारुह्य पार्वत्या सह शंकर: ।।8।।


ययौ भूमण्डलं द्रष्टुं गौर्याश्चित्राणि दर्शयन् ।

क्वचिद् विन्ध्याचलप्रान्ते महारण्ये सुदुर्गमे ।।9।।


तत्र व्याहन्तुमायान्तं भिल्लं परशुधारिणम् ।

वर्ध्यमानं महाव्याघ्रं नखदंष्ट्राभिरावृतम् ।।10।।


अतीव चित्रचारित्र्यं वज्रकायसमायुतम् ।

अप्रयत्नमनायासमखिन्नं सुखमास्थितम् ।।11।।

 

पलायन्तं मृगं पश्चाद् व्याघ्रो भीत्या पलायित: ।

एतदाश्चर्यमालोक्य पार्वती प्राह शंकरम् ।।12।।


श्री पार्वत्युवाच |

किमाश्चर्यं किमाश्चर्यमग्रे शम्भो निरीक्ष्यताम् ।

इत्युक्त: स तत: शम्भुर्दृष्ट्वा प्राह पुराणवित् ।।13।।


श्रीशंकर उवाच

गौरि वक्ष्यामि ते चित्रमवाड़्मनसगोचरम् ।

अदृष्टपूर्वमस्माभिर्नास्ति किंचिन्न कुत्रचित् ।।14।।


मया सम्यक् समासेन वक्ष्यते श्रृणु पार्वति ।

अयं दूरश्रवा नाम भिल्ल: परमधार्मिक: ।।15।।


समित्कुशप्रसूनानि कन्दमूलफलादिकम् ।

प्रत्यहं विपिनं गत्वा समादाय प्रयासत: ।।16।।


प्रिये पूर्वं मुनीन्द्रेभ्य: प्रयच्छति न वाण्छति ।

तेsपि तस्मिन्नपि दयां कुर्वते सर्वमौनिन: ।।17।।


दलादनो महायोगी वसन्नेव निजाश्रमे ।

कदाचिदस्मरत् सिद्धं दत्तात्रेयं दिगन्बरम् ।।18।।


दत्तात्रेय: स्मर्तृगामी चेतिहासं परीक्षितुम् ।

तत्क्षणात्सोsपि योगीन्द्रो दत्तात्रेय: समुत्थित: ।|19||


तं दृष्ट्वाssश्चर्यतोषाभ्यां दलादनमहामुनि: ।

सम्पूज्याग्रे निषीदन्तं दत्तात्रेयमुवाच तम् ।।20।।


मयोपहूत: सम्प्राप्तो दत्तात्रेय महामुने ।

स्मर्तृगामी त्वमित्येतत् किंवदन्तीं परीक्षितुम् ।।21।।


मयाद्य संस्मृतोsसि त्वमपराधं क्षमस्व मे ।

दत्तात्रेयो मुनिं प्राह मम प्रकृतिरीदृशी ।।22।।


अभक्त्या वा सुभक्त्या वा य: स्मरेन्मामनन्यधी: ।

तदानीं तमुपागत्य ददामि तद्भीप्सितम् ।।23।।


दत्तात्रेयो मुनिं प्राह दलादनमुनीश्वरम् ।

यदिष्टं तद्वृणीष्व त्वं यत् प्राप्तोsहं त्वया स्मृत: ।।24।।


दत्तात्रेयं मुनिः प्राह मया किमपि नोच्यते |

त्वचित्ते यत्स्थितम तन्मे प्रयच्छ मुनिपुंगव ||25||


श्रीदत्तात्रेय उवाच

ममास्ति वज्रकवचं गृहाणेत्यवदन्मुनिम् ।

तथेत्यंगीकृतवते दलादनमुनये मुनि: ।।26।।


स्ववज्रकवचं प्राह ऋषिच्छन्द: पुर:सरम् ।

न्यासं ध्यानं फलं तत्र प्रयोजनमशेषत: ।।27।।


|| अथ विनियोगः  ||

अस्य श्रीदत्तात्रेयवज्रकवचस्तोत्रमन्त्रस्य किरातरूपी महारुद्र ऋषि:, अनुष्टुप् छन्द:, श्रीदत्तात्रेयो देवता, द्रां बीजम्, आं शक्ति:, क्रौं कीलकम्, ऊँ द्रां आत्मने नम: । ऊँ द्रीं मनसे नम: । ऊँ आं द्रीं श्रीं सौ: ऊँ क्लां क्लीं क्लूं क्लैं क्लौं क्ल: । श्रीदत्तात्रेयप्रसादसिद्द्ध्यर्थे जपे विनियोग: ।।

|| अथ करन्यासः  ||

ऊँ द्रां अंगुष्ठाभ्यां नम: । ऊँ द्रीं तर्जनीभ्यां नम: । ऊँ द्रूं मध्यमाभ्यां नम: । ऊँ द्रैं अनामिकाभ्यां नम: । ऊँ द्रौं कनिष्ठिकाभ्यां नम: । ऊँ द्र: करतलकरपृष्ठाभ्यां नम: ।


|| अथ हृदयादिन्यासः || 

ऊँ द्रां हृदयाय नम: । ऊँ द्रीं शिरसे स्वाहा |  ऊँ द्रूं शिखाये वषट  । ऊँ द्रैं कवचाय हुम् | ऊँ द्रौं नेत्रत्रयाय वौषट | ऊँ द्र: अस्त्राय फट |

ऊँ भूर्भूव: स्वरोम् इति दिक्बन्धः ||


|| अथ ध्यानम् ||

जगदंकुरकन्दाय सच्चिदानन्दमूर्तये ।

दत्तात्रेयाय योगीन्द्रचन्द्राय परमात्मने ।।1।।


कदा योगी कदा भोगी कदा नग्न: पिशाचवत् ।

दत्तात्रेयो हरि: साक्षाद्भुक्तिमुक्तिप्रदायक: ।।2।।


वाराणसीपुरस्नायी कोल्हापुरजपादर: ।

माहुरीपुरभिक्षाशी सह्यशायी दिगम्बर: ।।3।।


इन्द्रनीलसमाकारश्चन्द्रकान्तसमद्युति: ।

वैदूर्यसदृशस्फूर्तिश्चलत्किंचिज्जटाधर: ।।4।।


स्निग्धधावल्ययुक्ताक्षोsत्यन्तनीलकनीनिक: ।

भ्रूवक्ष:श्मश्रुनीलांक: शशांकसदृशानन: ।।5।।


हासनिर्जितनीहार: कण्ठनिर्जितकम्बुक: ।

मांसलांसो दीर्घबाहु: पाणिनिर्जितपल्लव: ।।6।।


विशालपीनवक्षाश्च ताम्रपाणिर्दलोदर: ।

पृथुलश्रोणिललितो विशालजघनस्थ: ।।7।।


रम्भास्तम्भोपमानोरूर्जानुपूर्वैकजंघक: ।

गूढ़गुल्फ: कूर्मपृष्ठो लसत्पादोषरिस्थल: ।।8।।


रक्तारविन्दसदृशरमणीयपदाधर: ।

चर्माम्बरधरो योगी स्मर्तृगामी क्षणे क्षणे ।।9।।


ज्ञानोपदेशनिरतो विपद्धरणदीक्षित: ।

सिद्धासनसमासीन ऋजुकायो हसन्मुख: ।।10।।


वामहस्तेन वरदो दक्षिणेनाभयंकर: ।

बालोन्मत्तपिशाचीभि: क्वचिद्युक्त: परीक्षित: ।।11।।


त्यागी भोगी महायोगी नित्यानन्दो निरंजन: ।

सर्वरूपी सर्वदाता सर्वग: सर्वकामद: ।।12।।


भस्मोद्धूलितसर्वांगो महापातकनाशन: ।

भुक्तिप्रदो मुक्तिदाता जीवन्मुक्तो न संशय: ।।13।।


एवं ध्यात्वाsनन्यचित्तो मद्वज्रकवचं पठेत् ।

मामेव पश्यन्सर्वत्र स मया सह संचरेत् ।।14।।


दिगम्बरं भस्मसुगन्धलेपनं चक्रं त्रिशूलं डमरुं गदायुधम् ।

पद्मासनं योगिमुनीन्द्रवन्दितं दत्तेति नामस्मरणेन नित्यम् ।।15।।


ऊँ द्रां

अथ कवचम 

ऊँ दत्तात्रेय: शिर: पातु सहस्त्राब्जेषु संस्थित: ।

भालं पात्वानसूयेयश्चन्द्रमण्डलमध्यग: ।।1।।


कूर्चं मनोमय: पातु हं क्षं द्विदलपद्मभू: ।

ज्योतीरूपोsक्षिणी पातु पातु शब्दात्मक: श्रुती ।।2।।


नासिकां पातु गन्धात्मा मुखं पातु रसात्मक: ।

जिह्वां वेदात्मक: पातु दन्तोष्ठौ पातु धार्मिक: ।।3।।।


कपोलावत्रिभू: पातु पात्वशेषं ममात्मवित् ।

स्वरात्मा षोडशाराब्जस्थित: स्वात्माsवताद्गलम् ।।4।।


स्कन्धौ चन्द्रानुज: पातु भुजौ पातु कृतादिभू: ।

जत्रुणी शत्रुजित् पातु पातु वक्ष:स्थलं हरि: ।।5।।


कादिठान्तद्वादशारपद्मगो मरुदात्मक: ।

योगीश्वरेश्वर: पातु हृदयं हृदयस्थित: ।।6।।


पार्श्वे हरि: पार्श्ववर्ती पातु पार्श्वस्थित: स्मृत: ।

हठयोगादियोगज्ञ: कुक्षी पातु कृपानिधि: ।।7।।


डकारादिफकारान्तदशारससीरुहे ।

नाभिस्थले वर्तमानो नाभिं वह्न्यात्मकोsवतु ।।8।।


वह्नितत्त्वमयो योगी रक्षतान्मणिपूरकम् ।

कटिं कटिस्थब्रह्माण्डवासुदेवात्मकोsवतु ।।9।।


बकारादिलकारान्तषट्पत्राम्बुजबोधक: ।

जलतत्वमयो योगी स्वाधिष्ठानं ममावतु ।।10।।


सिद्धासनसमासीन ऊरू सिद्धेश्वरोsवतु ।

वादिसान्तचतुष्पत्रसरोरुहनिबोधक: ।।11।।


मूलाधारं महीरूपो रक्षताद्वीर्यनिग्रही ।

पृष्ठं च सर्वत: पातु जानुन्यस्तकराम्बुज: ।


जंघे पात्ववधूतेन्द्र: पात्वंघ्री तीर्थपावन: ।

सर्वांग पातु सर्वात्मा रोमाण्यवतु केशव: ।।।13।।


चर्म चर्माम्बर: पातु रक्तं भक्तिप्रियोsवतु ।

मांसं मांसकर: पातु मज्जां मज्जात्मकोsवतु ।।14।।


अस्थीनि स्थिरधी: पायान्मेधां वेधा: प्रपालयेत् ।

शुक्रं सुखकर: पातु चित्तं पातु दृढाकृति: ।।15।।


मनोबुद्धिमहंकारं हृषीकेशात्मकोsवतु ।

कर्मेन्द्रियाणि पात्वीश: पातु ज्ञानेन्द्रियाण्यज: ।।16।।


बन्धून् बन्धुत्तम: पायाच्छत्रुभ्य: पातु शत्रुजित् ।

गृहारामधनक्षेत्रपुत्रादीण्छंकरोsवतु ।।17।।


भार्यां प्रकृतिवित् पातु पश्वादीन्पातु शार्ड्ग्भृत् ।

प्राणान्पातु प्रधानज्ञो भक्ष्यादीन्पातु भास्कर: ।।18।।


सुखं चन्द्रात्मक: पातु दु:खात् पातु पुरान्तक: ।

पशून्पशुपति: पातु भूतिं भूतेश्वरी मम ।।19।।


प्राच्यां विषहर: पातु पात्वाग्नेय्यां मखात्मक:

याम्यां धर्मात्मक: पातु नैऋत्यां सर्ववैरिहृत ।।20।।


वराह: पातु वारुण्यां वायव्यां प्राणदोsवतु ।

कौबेर्यां धनद: पातु पात्वैशान्यां महागुरु: ।।21।।


ऊर्ध्वं पातु महासिद्ध: पात्वधस्ताज्जटाधर: ।

रक्षाहीनं तु यत्स्थानं रक्षत्वादिमुनीश्वर: ।।22।।


ॐ द्रां | मंत्र जपः  |

ऊँ द्रां अंगुष्ठाभ्यां नम: । ऊँ द्रीं तर्जनीभ्यां नम: । ऊँ द्रूं मध्यमाभ्यां नम: । ऊँ द्रैं अनामिकाभ्यां नम: । ऊँ द्रौं कनिष्ठिकाभ्यां नम: । ऊँ द्र: करतलकरपृष्ठाभ्यां नम: ।

एवं हृदयादिन्यासः |

ऊँ भूर्भूव: स्वरोम् इति दिक्बन्धः ||


एतन्मे वज्रकवचं य: पठेच्छृणुयादपि ।

वज्रकायश्चिरंजीवी दत्तात्रेयोsहमब्रुवम् ।।23।।


त्यागी भोगी महायोगी सुखदु:खविवर्जित: ।

सर्वत्रसिद्धसंकल्पो जीवन्मुक्तोsथ वर्तते ।।24।।


इत्युक्त्वान्तर्दधे योगी दत्तात्रेयो दिगम्बर: ।

दलादनोsपि तज्जप्त्वा जीवन्मुक्त: स वर्तते ।।26।।


भिल्लो दूरश्रवा नाम तदानीं श्रुतवादिनम् ।

सकृच्छृवणमात्रेण वज्रांगोsभवदप्यसौ ।।27।।


इत्येतद्वज्रकवचं दत्तात्रेयस्य योगिन: ।

श्रुत्वाशेषं शम्भुमुखात् पुनर्प्याह पार्वती ।।27।।


पार्वत्युवाच

एतत्कवचमाहात्म्यं वद विस्तरतो मम ।

कुत्र केन कदा जाप्यं किं यज्जाप्यं कथं कथम् ।।28।।


उवाच शम्भुस्तत्सर्वं पार्वत्या विनयोदितम् ।

श्रीशिव उवाच

श्रृणु पार्वति वक्ष्यामि समाहितमनाविलम् ।।29।।


धर्मार्थकाममोक्षाणामिदमेव परायणम् ।

हस्त्यश्वरथपादातिसर्वैश्वर्यप्रदायकम् ।।30।।


पुत्रमित्रकलत्रादिसर्वसन्तोषसाधनम् ।

वेदशास्त्रादिविद्यानां निधानं परमं हि तत् ।।31।।


संगीतशास्त्रसाहित्यसत्कवित्वविधायकम् ।

बुद्धिविद्यास्मृतिप्रज्ञामतिप्रौढिप्रदायकम् ।।32।।


सर्वसन्तोषकरणं सर्वदु:खनिवारणम् ।

शत्रुसंहारकं शीघ्रं यश:कीर्तिविवर्धनम् ।।33।।


अष्टसंख्या महारोगा: सन्निपातास्त्रयोदश ।

षण्णवत्यक्षिरोगाश्च विंशतिर्मेहरोगका: ।।34।।


अष्टादश तु कुष्ठानि गुल्मान्यष्टविधान्यपि ।

अशीतिर्वातरोगाश्च चत्वारिंशत्तु पैत्तिका: ।।35।।


विंशति श्लेष्मरोगाश्च क्षयचातुर्थिकादय: ।

मन्त्रयन्त्रकुयोगाद्या: कल्पतन्त्रादिनिर्मिता: ।।36।।


ब्रह्मराक्षसवेतालकूष्माण्डादिग्रहोद्भवा: ।

संगजादेशकालस्थास्तापत्रयसमुत्थिता: ।।37।।


नवग्रहसमुद्भूता महापातकसम्भवा: ।

सर्वे रोगा: प्रणश्यन्ति सहस्त्रावर्तनाद्ध्रुवम् ।।38।।


अयुतावृत्तिमात्रेण वन्ध्या पुत्रवती भवेत् ।

अयुतद्वितयावृत्या ह्यपमृत्युजयो भवेत् ।।39।।


अयुतत्रितयाच्चैव खेचरत्वं प्रजायते ।

सहस्त्रादयुतादर्वाक् सर्वकार्याणि साधयेत् ।।40।।


लक्षावृत्या कार्यसिद्धिर्भवत्येव न संशय: ।।41।।


विषवृक्षस्य मूलेषु तिष्ठन् वै दक्षिणामुख: ।

कुरुते मासमात्रेण वैरिणं विकलेन्द्रियम् ।।42।।


औदुम्बरतरोर्मूले वृद्धिकामेन जाप्यते ।

श्रीवृक्षमूले श्रीकामी तिंतिणी शान्तिकर्मणि ।।43।।


ओजस्कामोsश्वत्थमूले स्त्रीकामै: सहकारके ।

ज्ञानार्थी तुलसीमूले गर्भगेहे सुतार्थिभि: ।।44।।


धनार्थिभिस्तु सुक्षेत्रे पशुकामैस्तु गोष्ठके ।

देवालये सर्वकामैस्तत्काले सर्वदर्शितम् ।।45।।


नाभिमात्रजले स्थित्वा भानुमालोक्य यो जपेत् ।

युद्धे वा शास्त्रवादे वा सहस्त्रेण जयो भवेत् ।।46।।


कण्ठमात्रे जले स्थित्वा यो रात्रौ कवचं पठेत् ।

ज्वरापस्मारकुष्ठादितापज्वरनिवारणम् ।।47।।


यत्र यत्स्यात्सिथरं यद्यत्प्रसक्तं तन्निवर्तते ।

तेन तत्र हि जप्तव्यं तत: सिद्धिर्भवेद्ध्रुवम् ।।48।।


इत्युक्तवान शिवो गौर्यै रहस्यं परमं शुभम् ।

य: पठेद् वज्रकवचं दत्तात्रेयसमो भवेत् ।।49।।


एवं शिवेन कथितं हिमवत्सुतायै

प्रोक्तं दलादमुनयेsत्रिसुतेन पूर्वम् ।

य: कोsपि वज्रकवचं पठतीह लोके

दत्तोपमश्चरति योगिवरश्चिरायु: ।।50।।


||इति श्रीरुद्रयामले हिमवत्खण्डे उमामहेश्वरसंवादे श्रीदत्तात्रेयवज्रकवचस्तोत्रं सम्पूर्णम् ।।


Get peace in life, attract health, wealth and prosperity by reciting this powerful hymn of lord dattatrey, best and powerful prayer of digambar.

Whatever is the problem, don't worry just invoke lord datt who has the power of trinity, who is the mastes of Naath sampradaay, who control all the tantra. 


Lyrics of datt kawacham, Benefits of dattatrey kawach recitation, दत्तात्रेय कवचं .

Comments

Best astrology services

NO

no You have got answer No. Now take decision as per your wish. Check Again

Rukmani Ashtakam Lyrics and benefits with meaning

Rukmani ashtakam lyrics with meaning in English and hindi, benefits of reciting rukmini ashtak, best time of rukmini pooja. Rukmani Ashtakam: There is a wonderful prayer in which we appeal for the blessings of Mother Rukmini. Who is always engaged in serving lord krishna? This is very good for love seekers and those who are in search of deserving life partner.  What is the solution of love problems? what is the easy remedies to get deserving life partner? How to solve problems between husband and wife? Answer is Worship and recitation of rukmani ashtkam. There are many benefits of reciting Rukmini Ashtakam: Those who are not getting married, if they recite this after worshiping Mother Rukmini, then the obstacles in marriage will be destroyed. This is also a miraculous Ashtakam for those who want to marry their desired partner. The obstacles in love marriage are destroyed by the grace of Mother Rukmini. Even if there is a financial problem, worshiping Goddess Rukmini i...

YES

yes You have got answer YES, Now you can take decision as per your wish. Check Again